Thursday 26 January 2017

Indian National Pledge in Sanskrit



भारतो मम देशो अयं भारतीयाश्च बान्धवाः
परानुरक्तिरस्मिन् मे देशे अस्ति मम सर्वदा ॥१॥

समृद्धाः विविधाश्चास्य या देशस्य परम्पराः
सन्ति ताः प्रति मे नित्यम् अभिमानोन्नतम् शिरः ॥२॥

प्रयतिष्ये सदा चाहम् आसादयितुम् अर्हताम्
येन तासाम् भविष्यामि श्रद्धायुक्तः पदानुगः ॥३॥

संमानयेयं पितरौ वयोज्येष्ठान् गुरुंस्तथा
सौजन्येनैव वर्तेय तथा सर्वैरहं सदा ॥४॥

स्वकीयेन हि देशेन स्वदेशीयैश्च बान्धवैः
एकान्तनिष्ठं आचारं प्रतिजाने हि सर्वदा ॥५॥

एतेषामेव कल्याणे समुत्कर्षे तथैव |
नूनं विनिहितं सर्वं सौख्यं आत्यन्तिकं मम ||||

No comments:

Post a Comment